Page No 21:
Question 1:
उच्चारणं कुरुत-
उपरि | अधः | उच्चैः |
नीचैः | बहिः | अलम् |
कदापि | अन्तः | पुनः |
कुत्र | कदा | एकदा |
Answer:
विद्यार्थी इसका उच्चारण स्वयं करें।
Page No 22:
Question 2:
मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-
अलम् | अन्तः | बहिः | अधः | उपरि |
(क) वृक्षस्य ......................... खगाः वसन्ति।
(ख) ......................... विवादेन।
(ग) वर्षाकाले गृहात् ..................... मा गच्छ।
(घ) मञ्चस्य ............................. श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः विद्यालयस्य ............................. प्रविशन्ति।
Answer:
(ख) अलम् विवादेन।
(ग) वर्षाकाले गृहात् बहिः मा गच्छ।
(घ) मञ्चस्य अधः श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः विद्यालयस्य अन्तः प्रविशन्ति।
Page No 22:
Question 3:
अशुद्धं पदं चिनुत-
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति। | ............................ |
(ख) रामेण, गृहेण, सर्पेण, गजेण। | ............................ |
(ग) लतया, मातया, रमया, निशया। | ............................ |
(घ) लते, रमे, माते, प्रिये। | ............................ |
(ङ) लिखति, गर्जति, फलति, सेवति। | ............................ |
Answer:
(क) गमन्ति |
(ख) गजेण |
(ग) मातया |
(घ) माते |
(ङ) सेवति |
Page No 22:
Question 4:
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
प्रसन्नतायाः | चिकित्सकम् | लब्ध्वा | शरीरस्य | दक्षाः |
प्राप्य | ............................ |
कुशलाः | ............................ |
हर्षस्य | ............................ |
देहस्य | ............................ |
वैद्यम् | ............................ |
Answer:
प्राप्य |
लब्ध्वा
|
कुशलाः |
दक्षाः
|
हर्षस्य |
प्रसन्नतायाः
|
देहस्य |
शरीरस्य
|
वैद्यम् |
चिकित्सकम्
|
Page No 23:
Question 5:
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) मञ्चे कति बालकवयः उपविष्टाः सन्ति?
(ख) के कोलाहलं कुर्वन्ति?
(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
(ङ) लोके पुनः पुनः कानि भवन्ति?
(च) किं कृत्वा घृतं पिबेत्?
Answer:
(क) मञ्चे चत्वारः बालकवयः उपविष्टाः सन्ति।
(ख) श्रोतारः कोलाहलं कुर्वन्ति।
(ग) गजाधरः आधुनिकं वैद्यम् उद्दिष्य काव्यं प्रस्तौति।
(घ) तुन्दिलः तुन्दस्य उपरि हस्तम् आवर्त्तयति।
(ङ) लोके पुनः पुनः शरीराणि भवन्ति।
(च) श्रमं कृत्वा घृतं पिबेत्।
Page No 23:
Question 6:
मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
नासिकायामेव | वारंवारम् | खड्गेन | दूरम् | मित्रता | मक्षिका |
व्यजनेन | उपाविशत् | छिन्ना | सुप्तः | प्रियः |
पुरा एकस्य नृपस्य एकः ........................ वानरः आसीत्। एकदा नृपः ........................... आसीत्। वानरः ............................. तम् अवीजयत्। तदैव एका ................................. नृपस्य नासिकायाम् ............................। यद्यपि वानरः ........................ व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ......................... उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ......................................... प्रहारम् अकरोत्। मक्षिका तु उड्डीय .............................. गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ............................... अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ..................................... नोचिता।''
Answer:
पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते- '' मूर्खजनैः सह मित्रता नोचिता।''
Page No 24:
Question 7:
विलोमपदानि योजयत-
अधः | नीचैः |
अन्तः | सुलभम् |
दुर्बुद्धे! | उपरि |
उच्चैः | बहिः |
दुर्लभम् | सुबुद्धे! |
Answer:
विलोमपदानि योजयत-
अधः | उपरि |
अन्तः | बहिः |
दुर्बुद्धे! | सुबुद्धे! |
उच्चैः | नीचैः |
दुर्लभम् | सुलभम् |